पंचमेरू भक्तिः
--वहंशस्थ छंद--


श्रीपंचमेरूस्थजिनेन्द्रगेहान्, प्रणम्य बिंबानि च वीरनाथं।
तत्रभिषेकाप्तजिनाधिपांश्च, तान् पंचमेरून् किल संस्तवीमि।।1।।

--पृथ्वी छंद--

सुदर्शनगिरिं स्तुवे विजयमेर्वचलमंदरान्।
सुविद्युदनुमालिभूमिभृदनाद्यनंतात्मकान्।।
सुरेन्द्रविहितातिशायिजिनजन्मकालोत्सवे।
सुधर्मवरतीर्थकृत्स्नपनकैश्च पूज्यानिमान्।।2।।

--बसंततिलका छंद--

तीर्थंकरस्नपननीरपवित्रजातः,
तुंगोऽस्ति यस्त्रिभुवने निखिलाद्रितोऽपि।
देवेन्द्रदानवनरेन्द्रखगेन्द्रवंद्यः,
तं श्रीसुदर्शनगिरिं सततं नमामि।।1।।

यो भद्रसालवननंदनसौमनस्यैः,
भातीह पांडुकवनेन च शाश्वतोऽपि।
चैत्यालयान् प्रतिवनं चतुरो विधत्ते,
तं श्रीसुदर्शनगिरिं सततं नमामि।।2।।

जन्माभिषेकविधये जिनबालकानाम्,
वंद्याः सदा यतिवरैरपि पांडुकाद्याः।
धत्ते विदिक्षु महनीयशिलाश्चतसृः
तं श्रीसुदर्शनगिरिं सततं नमामि।।3।।

योगीश्वराः प्रतिदिनं विहरन्ति यत्र,
शान्त्यैषिणः समरसैकपिपासवश्च।
ते चरणर्द्धिसफलं खलु कुर्वतेऽत्र,
तं श्रीसुदर्शनगिरिं सततं नमामि।।4।।

ये प्रीतितो गिरिवंर सततं नमन्ति,
वंदन्त एव च परोक्षमीह भक्त्या।
ते प्राप्नुवंति किल ज्ञानमतीं श्रियं हि,
तं श्रीसुदर्शनगिरिं सततं नमामि।।5।।
अंचलिका

इच्छामि भंत्ते। पंचमेरूभत्तिकाओसग्गो कआ तस्सालोचेउं, इमम्हि मज्झलोए अड्ढाइज्जदीवमज्झट्ठिदसव्वोच्चमंदरसेलेसु भद्दसालणंदणसोमणस-पांडुकवणेसु चउचउदिसासु असीदिजिणायदणाणं पांडुवणविदिसासु तित्थयरण्हवणपवित्तपांडुपहुदिसिलाणं जिण-जिणघरवंदणट्ठविहरमाणचार-णरिद्धिजुत्तरिसीणं च णिच्चकालं अंचेमि पूजेमि वंदामि णमंसामि दुक्खक्खअे कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्तिहोउ मज्झं।